२.९६.१७

सौमित्रिरपि ताः सर्वा मातॄः संप्रेक्ष्य दुःखितः ।
अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥

अन्वयः

सौमित्रिरपि Lakshmana also, सर्वाः all, ताः मात्रृ़ः those mothers, सम्प्रेक्ष्य after seeing, दुःखितः overcome with grief, रामात् अनन्तरम् following Rama, शनैः slowly, आसक्तम् with devotion, अभ्यवादयत् bowed with reverence.

M N Dutt

After Rāma had done, Sumitrā's son also, seeing all his mothers, with sorrow gently paid his reverence to them with affection.

Summary

On seeing his mothers, Lakshmana, too, was overcome with grief and with devotion followed Rama and slowly bowed to them with reverence.

पदच्छेदः

सौमित्रिर्सौमित्रि (१.१)
अपिअपि (अव्ययः)
ताःतद् (२.३)
सर्वासर्व (२.३)
मातॄन्मातृ (२.३)
सम्प्रेक्ष्यसम्प्रेक्ष्य (√सम्प्र-ईक्ष् + ल्यप्)
दुःखितःदुःखित (१.१)
अभ्यवादयतासक्तंअभ्यवादयत (√अभि-वादय् लङ् प्र.पु. एक.)–आसक्त (√आ-सञ्ज् + क्त, २.१)
शनैशनैस् (अव्ययः)
रामाद्राम (५.१)
अनन्तरम्अनन्तरम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सौ मित्रिपि ताः र्वा
मा तॄः सं प्रेक्ष्य दुःखि तः
भ्य वा ता क्तं
नै रा मान्त रम्