२.९७.४

इत्युक्तः केकयीपुत्रः काकुत्स्थेन महात्मना ।
प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् ॥

अन्वयः

महात्मना by the magnanimous, काकुत्स्थेन by Rama, इति thus, उक्तः uttered, कैकयीपुत्रः son of Kaikeyi, Bharata, प्राञ्जलिः joining the palms in reverence, भूयः again, बलवत् strongly, प्रगृह्य holding, वाक्यम् this statement, अब्रवीत् said.

M N Dutt

Thus accosted by the high-souled Kākutstha, Kaikeyi's son, suppressing his grief by a strong effort, with joined hands said.

Summary

Thus enquired by the magnanimous Rama, Bharata, joining his palms tightly, replied:

पदच्छेदः

इत्य्इति (अव्ययः)
उक्तःउक्त (√वच् + क्त, १.१)
केकयीपुत्रःकेकयी–पुत्र (१.१)
काकुत्स्थेनकाकुत्स्थ (३.१)
महात्मनामहात्मन् (३.१)
प्रगृह्यप्रगृह्य (√प्र-ग्रह् + ल्यप्)
बलवद्बल–वत् (अव्ययः)
भूयःभूयस् (अव्ययः)
प्राञ्जलिर्प्राञ्जलि (१.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यु क्तः के यी पु त्रः
का कु त्स्थे हात्म ना
प्र गृह्य द्भू यः
प्राञ्ज लि र्वाक्यब्र वीत्