२.९८.१

ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः ।
शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥

अन्वयः

ततः then, तैः by them, सुहृद्गणैः with hosts of friends, वृतानाम् surrounded by, पुरुषसिंहानाम् lions of men (best of men), शोचतामेव while they were lamenting, रजनी night, दुःखेन painfully, व्यत्यवर्तत passed off.

Summary

That night passed off painfully for the four lion like brothers as they lamented, surrounded by their hosts of friends.

पदच्छेदः

ततःततस् (अव्ययः)
पुरुषसिंहानांपुरुष–सिंह (६.३)
वृतानांवृत (√वृ + क्त, ६.३)
तैःतद् (३.३)
सुहृद्गणैःसुहृद्–गण (३.३)
शोचताम्शोचत् (√शुच् + शतृ, ६.३)
एवएव (अव्ययः)
रजनीरजनी (१.१)
दुःखेनदुःख (३.१)
व्यत्यवर्ततव्यत्यवर्तत (√व्यति-वृत् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःपुरु सिं हा नां
वृ ता नां तैःसु हृद्ग णैः
शो ता मे नी
दुः खे व्यत्यर्त