२.९८.२

रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः ।
मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥

अन्वयः

रजन्याम् that night, सुप्रभातायाम् had dawned, ते भ्रातरः those brothers, सुहृद्वृताः surrounded by friends, मन्दाकिन्याम् on the bank of Mandakini river, हुतम् morning oblations, जप्यम् prayers, कृत्वा having performed, रामम् to Rama, उपागमन् returned.

Summary

When the night dawned, those brothers surrounded by their friends made (morning) ablutions and, after the prayers, returned to Rama.

पदच्छेदः

रजन्यांरजनी (७.१)
सुप्रभातायांसु (अव्ययः)–प्रभात (√प्र-भा + क्त, ७.१)
भ्रातरस्भ्रातृ (१.३)
तेतद् (१.३)
सुहृद्वृताःसुहृद्–वृत (√वृ + क्त, १.३)
मन्दाकिन्यांमन्दाकिनी (७.१)
हुतंहुत (२.१)
जप्यंजप्य (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
रामम्राम (२.१)
उपागमन्उपागमन् (√उप-गम् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्यां सुप्र भा ता यां
भ्रा स्तेसु हृद्वृ ताः
न्दा कि न्यांहु तं प्यं
कृ त्वा रामु पा मन्