२.९८.११

श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः ।
प्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम् ॥

अन्वयः

महाराज O great king, राज्ये in the kingdom, स्थितम् installed, अरिन्दमम् subduer of enemies, त्वाम् you, अग्य्राः leading, श्रेणयः guilds of traders, etc, सर्वशः all over, प्रतपन्तम् with resplendence, आदित्यम् इव like Sun, पश्यन्तु let them see.

Summary

O great king and subduer of enemies, may all the leading guilds of traders and other subjects behold you all over installed in the kingdom like the resplendent Sun.

पदच्छेदः

श्रेणयस्श्रेणि (१.३)
त्वांत्वद् (२.१)
महाराजमहत्–राज (८.१)
पश्यन्त्व्पश्यन्तु (√पश् लोट् प्र.पु. बहु.)
अग्र्याश्अग्र्य (१.३)
(अव्ययः)
सर्वशःसर्वशस् (अव्ययः)
प्रतपन्तम्प्रतपत् (√प्र-तप् + शतृ, २.१)
इवादित्यंइव (अव्ययः)–आदित्य (२.१)
राज्येराज्य (७.१)
स्थितम्स्थित (√स्था + क्त, २.१)
अरिंदमम्अरिंदम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रे स्त्वां हा रा
श्य न्त्व ग्र्याश्चर्व शः
प्रन्तमि वा दि त्यं
रा ज्येस्थि रिं मम्