२.९८.१९

अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।
आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥

अन्वयः

इह in this world, गच्छन्ति are passing, अहोरात्राणि days and nights, ग्रीष्मे in summer, अंशवः rays of the sun, जलमिव like the water, सर्वेषाम् all, प्राणिनाम् living things', आयूंषि life span, आशु are quickly, क्षपयन्ति are decaying.

Summary

The passing days and nights quickly decrease the life span of all living beings in this world, like sunrays drying up the water in summer.

पदच्छेदः

अहोरात्राणिअहर्–रात्र (१.३)
गच्छन्तिगच्छत् (√गम् + शतृ, १.३)
सर्वेषांसर्व (६.३)
प्राणिनाम्प्राणिन् (६.३)
इहइह (अव्ययः)
आयूंषिआयुस् (२.३)
क्षपयन्त्य्क्षपयन्ति (√क्षपय् लट् प्र.पु. बहु.)
आशुआशु (अव्ययः)
ग्रीष्मेग्रीष्म (७.१)
जलम्जल (२.१)
इवांशवःइव (अव्ययः)–अंशु (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हो रा त्राणि च्छन्ति
र्वे षां प्राणि नामि
यूं षिक्ष न्त्याशु
ग्री ष्मेमि वां वः