२.९८.३

तूष्णीं ते समुपासीना न कश्चित्किंचिदब्रवीत् ।
भरतस्तु सुहृन्मध्ये रामवचनमब्रवीत् ॥

अन्वयः

ते they, तूष्णीम् silently, समुपासीनाः sat togethr, कश्चित् any one, किञ्चित् a little, न अब्रवीत् did not speak, भरतस्तु Bharata on his part, सुहृन्मध्ये from among the friends, रामम् addressing Rama, वचनम् these words, अब्रवीत् said.

Summary

All of them sat together silently and no one uttered a word. Bharata alone from among them addressed Rama saying:

पदच्छेदः

तूष्णींतूष्णीम् (अव्ययः)
तेतद् (१.३)
समुपासीनासमुपासीन (√समुप-आस् + क्त, १.३)
(अव्ययः)
कश्चित्कश्चित् (१.१)
किंचिद्कश्चित् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
भरतस्भरत (१.१)
तुतु (अव्ययः)
सुहृन्मध्येसुहृद्–मध्य (७.१)
रामंराम (२.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तू ष्णीं तेमु पा सी ना
श्चि त्किंचिब्र वीत्
स्तुसु हृ न्म ध्ये
राब्र वीत्