२.९८.२१

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।
गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते ॥

अन्वयः

मृत्युः death, सहैव along with you, व्रजति is moving, सह मृत्युः along with death, निषीदति a man sits, सुदीर्घम् very long, अध्वानम् way, गत्वा having gone, सहमृत्युः with death, निवर्तते is returning.

Summary

Death follows a man wherever he goes. When he sits, death sits with him. Even after travelling a very long distance, the man returns along with death.

पदच्छेदः

सहैवसह (अव्ययः)–एव (अव्ययः)
मृत्युर्मृत्यु (१.१)
व्रजतिव्रजति (√व्रज् लट् प्र.पु. एक.)
सहसह (अव्ययः)
मृत्युर्मृत्यु (१.१)
निषीदतिनिषीदति (√नि-सद् लट् प्र.पु. एक.)
गत्वागत्वा (√गम् + क्त्वा)
सुदीर्घम्सु (अव्ययः)–दीर्घ (२.१)
अध्वानंअध्वन् (२.१)
सहसह (अव्ययः)
मृत्युर्मृत्यु (१.१)
निवर्ततेनिवर्तते (√नि-वृत् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

है मृ त्युर्व्रति
मृ त्युर्नि षीति
त्वासु दीर्घ ध्वा नं
मृ त्युर्निर्त ते