२.९८.३३

इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।
उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥

अन्वयः

पृथिवीपतिः lord of the earth, बहुविधैः by several kinds of, यज्ञैः with sacrifices, इष्ट्वा having performed, पुष्कलान् abundance of, भोगान् pleasures, अवाप्य च having enjoyed, उत्तमम् excellent, आयुश्च life also, आसाद्य having obtained , स्वर्गतः went to heaven.

Summary

King Dasaratha, lord of the earth, having performed various kinds of sacrifices and securing a long life, enjoyed abundance of pleasures and attained heaven.

पदच्छेदः

इष्ट्वाइष्ट्वा (√यज् + क्त्वा)
बहुविधैर्बहुविध (३.३)
यज्ञैर्यज्ञ (३.३)
भोगांश्भोग (२.३)
चावाप्य (अव्ययः)–अवाप्य (√अव-आप् + ल्यप्)
पुष्कलान्पुष्कल (२.३)
उत्तमंउत्तम (२.१)
चायुर् (अव्ययः)–आयुस् (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
स्वर्स्वर् (अव्ययः)
गतःगत (√गम् + क्त, १.१)
पृथिवीपतिःपृथिवीपति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ष्ट्वाहुवि धै र्य ज्ञै
र्भो गां श्चा वाप्य पुष्क लान्
त्त मं चायु रा साद्य
स्वर्ग तःपृथि वी तिः