२.९८.४८

कथं दशरथाज्जातः शुद्धाभिजनकर्मणः ।
जानन्धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् ॥

अन्वयः

शुद्धाभिजनकर्मणः of noble race and righteous deeds, दशरथात् from Dasaratha, जातः born of, धर्मम् righteousness, जानन् knowing, अधर्मिष्ठम् unrighteous, जुगुप्सितम् reprehensible, कर्म deed, कथम् how, कुर्याम् shall I do?.

Summary

How shall I, born to Dasaratha of noble race and righteous deeds, with the knowledge of dharma, do such a reprehensible and unrighteous deed?

पदच्छेदः

कथंकथम् (अव्ययः)
दशरथाज्दशरथ (५.१)
जातःजात (√जन् + क्त, १.१)
शुद्धाभिजनकर्मणःशुद्ध–अभिजन–कर्मन् (५.१)
जानन्जानत् (√ज्ञा + शतृ, १.१)
धर्मम्धर्म (२.१)
अधर्मिष्ठंअधर्मिष्ठ (२.१)
कुर्यांकुर्याम् (√कृ विधिलिङ् उ.पु. )
कर्मकर्मन् (२.१)
जुगुप्सितम्जुगुप्सित (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थं था ज्जा तः
शु द्धाभिर्म णः
जा न्धर्म र्मि ष्ठं
कु र्यांर्मजु गुप्सि तम्