२.९८.४९

गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेति च ।
तातं न परिगर्हेयं दैवतं चेति संसदि ॥

अन्वयः

गुरुः preceptor, क्रियावान् one who is devoted to meritorious acts, वृद्धश्च old, राजा king, प्रेतः departed soul, पिता father, इति च for this, दैवतं चेति as a god, संसदि in the assembly, तातम् father, न परिगर्हेयम् I cannot reproach.

Summary

King Dasaratha, my father and preceptor, is godlike to me. Devoted to meritorious acts, he departed from this world in his old age. For this reason, I cannot reproach him (publicly) in this assembly (of men).

पदच्छेदः

गुरुःगुरु (१.१)
क्रियावान्क्रियावत् (१.१)
वृद्धश्वृद्ध (१.१)
(अव्ययः)
राजाराजन् (१.१)
प्रेतःप्रेत (√प्र-इ + क्त, १.१)
पितेतिपितृ (१.१)–इति (अव्ययः)
(अव्ययः)
तातंतात (२.१)
(अव्ययः)
परिगर्हेयंपरिगर्हेयम् (√परि-गर्ह् विधिलिङ् उ.पु. )
दैवतंदैवत (१.१)
चेति (अव्ययः)–इति (अव्ययः)
संसदिसंसद् (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गु रुःक्रि या वा न्वृ द्धश्च
रा जा प्रे तःपि तेति
ता तंरि र्हे यं
दै तं चेति संदि