२.९८.५१

अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ।
राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता ॥

अन्वयः

भूतानि living beings, अन्तकाले at the time of death, मुह्यन्ति are deluded, इति thus, पुराश्रुतिः ancient saying, एवम् in this way, कुर्वता by doing, राज्ञा by the king, सा श्रुतिः that adage, लोके in this world, प्रत्यक्षं explicitly, कृता has been made.

Summary

There is an ancient saying that at the time of death, the intellect of people is deluded. By conducting himself in this way, king Dasaratha has proved it.

पदच्छेदः

अन्तकालेअन्त–काल (७.१)
हिहि (अव्ययः)
भूतानिभूत (१.३)
मुह्यन्तीतिमुह्यन्ति (√मुह् लट् प्र.पु. बहु.)–इति (अव्ययः)
पुराश्रुतिःपुरा (अव्ययः)–श्रुति (१.१)
राज्ञैवंराजन् (३.१)–एवम् (अव्ययः)
कुर्वताकुर्वत् (√कृ + शतृ, ३.१)
लोकेलोक (७.१)
प्रत्यक्षाप्रत्यक्ष (१.१)
सातद् (१.१)
श्रुतिःश्रुति (१.१)
कृताकृत (√कृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्त का लेहि भू तानि
मु ह्य न्तीतिपु राश्रु तिः
रा ज्ञै वं कुर्व ता लो के
प्र त्य क्षा साश्रु तिःकृ ता