२.९८.५३

पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यते ।
तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥

अन्वयः

यः पुत्रः that son, पितुः father's, समतिक्रान्तम् transgressions, साधु as right, मन्यते sets, तत् that son, लोके in the world, अपत्यम् as son, मतम् is considered, अतः for this, अन्यथा contrary happens, विपरीतम् reverse is so.

Summary

One who sets right the wrongs done by his father is a true son. Otherwise the son becomes just the opposite. (He is not a son to the father).

पदच्छेदः

पितुर्पितृ (६.१)
हिहि (अव्ययः)
समतिक्रान्तंसमतिक्रान्त (√समति-क्रम् + क्त, २.१)
पुत्रोपुत्र (१.१)
यःयद् (१.१)
साधुसाधु (२.१)
मन्यतेमन्यते (√मन् लट् प्र.पु. एक.)
तद्तद् (१.१)
अपत्यंअपत्य (१.१)
मतंमत (√मन् + क्त, १.१)
लोकेलोक (७.१)
विपरीतम्विपरीत (१.१)
अतोअतस् (अव्ययः)
ऽन्यथाअन्यथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पि तुर्हि ति क्रा न्तं
पु त्रो यः साधुन्य ते
त्यं तं लो के
वि री तोऽन्य था