२.९८.५४

तदपत्यं भवानस्तु मा भवान्दुष्कृतं पितुः ।
अभिपत्तत्कृतं कर्म लोके धीरविगर्हितम् ॥

अन्वयः

भवान् you, तत् अपत्यम् अस्तु be such a son, लोके in this world, धीरविगर्हितम् condemned by men of wisdom, दुष्कृतम् sinful, पितुः father's, कृतम् committed, कर्म act, भवान् you, अभिपत्ता an approver, मास्तु let not become.

Summary

So be a worthy son and let not the sinful act committed by our father and condemned by men of wisdom be approved by you.

पदच्छेदः

तद्तद् (१.१)
अपत्यंअपत्य (१.१)
भवान्भवत् (१.१)
अस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
मामा (अव्ययः)
भवान्भवत् (१.१)
दुष्कृतंदुष्कृत (१.१)
पितुःपितृ (६.१)
अभिपत्ताअभिपत्ता (√अभि-पत् लुट् प्र.पु. एक.)
कृतंकृत (√कृ + क्त, १.१)
कर्मकर्मन् (१.१)
लोकेलोक (७.१)
धीरविगर्हितम्धीर–विगर्हित (√वि-गर्ह् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यं वास्तु
मा वा न्दुष्कृ तंपि तुः
भि त्तत्कृ तंर्म
लो के धीविर्हि तम्