२.९८.५८

चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।
आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥

अन्वयः

धर्मज्ञ one who is cognizant of duty, गार्हस्थ्यम् life a of householder, चतुर्णाम् the four, आश्रमाणाम् among modes of life, श्रेष्ठम् foremost, आश्रमम् mode of life, धर्मज्ञाः knowers of dharma, प्राहुः हि say, तम् that one, त्यक्तुम् to renounce, कथम् how, अर्हसि are entitled?

Summary

O Rama, you are the one who knows his duty. The knowers of dharma maintain that the life of a householder is the foremost among the four modes of life. How can you renounce it?

पदच्छेदः

चतुर्णाम्चतुर् (६.३)
आश्रमाणांआश्रम (६.३)
हिहि (अव्ययः)
गार्हस्थ्यंगार्हस्थ्य (२.१)
श्रेष्ठम्श्रेष्ठ (२.१)
आश्रमम्आश्रम (२.१)
आहुर्आहुः (√अह् लिट् प्र.पु. बहु.)
धर्मज्ञधर्म–ज्ञ (८.१)
धर्मज्ञास्धर्म–ज्ञ (१.३)
तंतद् (२.१)
कथंकथम् (अव्ययः)
त्यक्तुम्त्यक्तुम् (√त्यज् + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तु र्णा माश्र मा णांहि
गा र्ह स्थ्यं श्रेष्ठ माश्र मम्
हु र्ध र्मज्ञ र्म ज्ञा
स्तं थं त्यक्तुर्हसि