२.९८.६०

हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् ।
भवता च विना भूतो न वर्तयितुमुत्सहे ॥

अन्वयः

हीनबुद्धिगुणः deficient in intelligence and virtue, स्थानेन चापि even in position, हीनः low, बालः child, अहम् I, भवता by you, विनाभूतः deserted, वर्तयितुम् to live, न उत्सहे I do not desire.

Summary

I am a child, deficient in intelligence and virtue and even inferior in position. Deserted by you, I do not wish to live.

पदच्छेदः

हीनबुद्धिगुणोहीन (√हा + क्त)–बुद्धि–गुण (१.१)
बालोबाल (१.१)
हीनःहीन (√हा + क्त, १.१)
स्थानेनस्थान (३.१)
चाप्य् (अव्ययः)–अपि (अव्ययः)
अहम्मद् (१.१)
भवताभवत् (३.१)
(अव्ययः)
विनाविना (अव्ययः)
भूतोभूत (√भू + क्त, १.१)
(अव्ययः)
वर्तयितुम्वर्तयितुम् (√वर्तय् + तुमुन्)
उत्सहेउत्सहे (√उत्-सह् लट् उ.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ही बुद्धिगु णो बा लो
ही नः स्था ने चाप्य हम्
तावि ना भू तो
र्तयितु मुत्स हे