२.९८.६६

आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।
अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात् ॥

अन्वयः

पुरुषर्षभ O best of men, अद्य now, मम my, मातुः mother's, आक्रोशम् censure, प्रमृज्य wiping away, तत्र भवन्तम् revered one, पितरं च father also, किल्बिषात् from sin, रक्ष protect.

Summary

O best of men, wiping out all the censure on my mother, redeem our revered father from sin.

पदच्छेदः

आक्रोशंआक्रोश (२.१)
मममद् (६.१)
मातुश्मातृ (६.१)
(अव्ययः)
प्रमृज्यप्रमृज्य (√प्र-मृज् + ल्यप्)
पुरुषर्षभपुरुष–ऋषभ (८.१)
अद्यअद्य (अव्ययः)
तत्रतत्र (अव्ययः)
भवन्तंभवत् (२.१)
(अव्ययः)
पितरंपितृ (२.१)
रक्षरक्ष (√रक्ष् लोट् म.पु. )
किल्बिषात्किल्बिष (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्रो शं मा तुश्च
प्र मृज्यपुरुर्ष
द्यत्र न्तं
पि रंक्ष किल्बि षात्