२.९८.६७

शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि ।
बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥

अन्वयः

अहम् I, शिरसा with my head bowed low, त्वा you, अभियाचे beseech, मयि in me, सर्वेषु every one of, बान्धवेषु relations, भूतेषु in all living beings, महेश्वरः इव like Maheswara, करुणाम् compassion, कुरुष्व do.

Summary

I beseech you with my head bowed low, show mercy on me and every one of our relations, like Maheswara showing compassion on all living beings.

पदच्छेदः

शिरसाशिरस् (३.१)
त्वाभियाचेत्वद् (२.१)–अभियाचे (√अभि-याच् लट् उ.पु. )
ऽहंमद् (१.१)
कुरुष्वकुरुष्व (√कृ लोट् म.पु. )
करुणांकरुणा (२.१)
मयिमद् (७.१)
बान्धवेषुबान्धव (७.३)
(अव्ययः)
सर्वेषुसर्व (७.३)
भूतेष्व्भूत (७.३)
इवइव (अव्ययः)
महेश्वरःमहेश्वर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शि सा त्वाभि या चे ऽहं
कु रुष्वरु णांयि
बान्ध वेषु र्वेषु
भू तेष्वि हेश्व रः