२.९८.६९

तथापि रामो भरतेन ताम्यत; प्रसाद्यमानः शिरसा महीपतिः ।
न चैव चक्रे गमनाय सत्त्ववा;न्मतिं पितुस्तद्वचने प्रतिष्ठितः ॥

अन्वयः

ताम्यता by the distressed, भरतेन by Bharata, तथा in that way, शिरसा with head bowed low, प्रसाद्यमानः propitiated, महीपतिः lord of the earth, सत्त्ववान् virtuous, रामः Rama, पितुः father's, तद्वचने in the words (of his father), प्रतिष्ठितः established, गमनाय to go back, मतिम् resolve, न चक्रे did not make.

Summary

Thus besought and propitiated by Bharata with his head bowed low and distressed, the virtuous lord of the world, Rama, firmly established in the words of his father, resolved not to go back to Ayodhya.

पदच्छेदः

तथापितथा (अव्ययः)–अपि (अव्ययः)
रामोराम (१.१)
भरतेनभरत (३.१)
ताम्यताताम्यत् (√तम् + शतृ, ३.१)
प्रसाद्यमानःप्रसाद्यमान (√प्र-सादय् + शानच्, १.१)
शिरसाशिरस् (३.१)
महीपतिःमहीपति (१.१)
(अव्ययः)
चैव (अव्ययः)–एव (अव्ययः)
चक्रेचक्रे (√कृ लिट् प्र.पु. एक.)
गमनायगमन (४.१)
सत्त्ववान्सत्त्ववत् (१.१)
मतिंमति (२.१)
पितुस्पितृ (६.१)
तद्वचनेतद्–वचन (७.१)
प्रतिष्ठितःप्रतिष्ठित (√प्रति-स्था + क्त, १.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
थापि रा मो ते ताम्य
प्र साद्य मा नःशि सा ही तिः
चै क्रे नात्त्व वा
न्म तिंपि तु स्तद्व नेप्र तिष्ठि तः