२.९९.१०

ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।
पितरं त्राहि धर्मज्ञ मातरं चाभिनन्दय ॥

अन्वयः

भरत O Bharata, मत्कृते for my sake, प्रभुम् competent, राजानम् king, ऋणात् from his debt (vow), मोचय redeem, धर्मज्ञम् one who knows righteousness, पितरम् चापि father also, मातरं च and mother, अभिनन्दय honour.

Summary

O Bharata, release for my sake the competent king from his debt (of vow) and honour the righteous father and the mother as well.

पदच्छेदः

ऋणान्ऋण (५.१)
मोचयमोचय (√मोचय् लोट् म.पु. )
राजानंराजन् (२.१)
मत्कृतेमद्–कृते (अव्ययः)
भरतभरत (८.१)
प्रभुम्प्रभु (२.१)
पितरंपितृ (२.१)
त्राहित्राहि (√त्रा लोट् म.पु. )
धर्मज्ञधर्म–ज्ञ (८.१)
मातरंमातृ (२.१)
चाभिनन्दय (अव्ययः)–अभिनन्दय (√अभि-नन्दय् लोट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

णा न्मो रा जा नं
त्कृ तेप्र भुम्
पि रं त्राहि र्मज्ञ
मा रं चाभिन्द