२.९९.९

भवानपि तथेत्येव पितरं सत्यवादिनम् ।
कर्तुमर्हति राजेन्द्रं क्षिप्रमेवाभिषेचनात् ॥

अन्वयः

राजेन्द्र O Indra among kings, भवानपि you also, तथेत्येव likewise, क्षिप्रमेव quickly, अभिषेचनात् by coronation, पितरम् father, सत्यवादिनम् true to his word, कर्तुम् to do, अर्हति should.

Summary

O Indra among kings, let your coronation be performed without delay since you are worthy and at the same time the truthfulness of our father's words be honoured.

पदच्छेदः

भवान्भवत् (१.१)
अपिअपि (अव्ययः)
तथेत्य्तथा (अव्ययः)–इति (अव्ययः)
एवएव (अव्ययः)
पितरंपितृ (२.१)
सत्यवादिनम्सत्य–वादिन् (२.१)
कर्तुम्कर्तुम् (√कृ + तुमुन्)
अर्हतिअर्हति (√अर्ह् लट् प्र.पु. एक.)
राजेन्द्रंराजन्–इन्द्र (२.१)
क्षिप्रम्क्षिप्रम् (अव्ययः)
एवाभिषेचनात्एव (अव्ययः)–अभिषेचन (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वापि थे त्ये
पि रंत्य वादि नम्
र्तुर्हति रा जे न्द्रं
क्षिप्र मे वाभि षे नात्