२.९९.१२

पुं नाम्ना नरकाद्यस्मात्पितरं त्रायते सुतः ।
तस्मात्पुत्र इति प्रोक्तः पितॄन्यत्पाति वा सुतः ॥

अन्वयः

यस्मात् since, सुतः son, पितरम् father, पुन्नाम्नः by name 'Put', नरकात् from hell, त्रायते delivers, तस्मात् for that reason, यः who, सर्वतः in everyway, पितॄन् ancestors, पाति protects, he, पुत्र: इति as putra, प्रोक्तः has been told.

Summary

Putra is so called as he delivers his father from a hell known as Put and protects the ancestors in all possible ways.

पदच्छेदः

पुंनाम्नापुंस्–नामन् (३.१)
नरकाद्नरक (५.१)
यस्मात्यस्मात् (अव्ययः)
पितरंपितृ (२.१)
त्रायतेत्रायते (√त्रा लट् प्र.पु. एक.)
सुतःसुत (१.१)
तस्मात्तस्मात् (अव्ययः)
पुत्रपुत्र (१.१)
इतिइति (अव्ययः)
प्रोक्तःप्रोक्त (√प्र-वच् + क्त, १.१)
पितॄन्पितृ (२.३)
यत्यत् (अव्ययः)
पातिपाति (√पा लट् प्र.पु. एक.)
वावा (अव्ययः)
सुतःसुत (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पुं ना म्ना का द्य स्मा
त्पि रं त्रा तेसु तः
स्मा त्पुत्र ति प्रो क्तः
पि तॄ न्य त्पाति वासु तः