२.९९.१३

एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ।
तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥

अन्वयः

गुणवन्तः virtuous, बहुश्रुताः learned, बहवः many, पुत्राः sons, एष्टव्याः are to be desired, समवेतानाम् together with, तेषाम् from among them, कश्चिदपि any one of them atleast, गयाम् to Gaya, व्रजेत् might go.

Summary

One should desire many virtuous and learned sons so that at least one of them may go to Gaya (to perform the father's obsequies).

पदच्छेदः

एष्टव्याएष्टव्य (√इष् + कृत्, १.३)
बहवःबहु (१.३)
पुत्रापुत्र (१.३)
गुणवन्तोगुणवत् (१.३)
बहुश्रुताःबहु–श्रुत (√श्रु + क्त, १.३)
तेषांतद् (६.३)
वैवै (अव्ययः)
समवेतानाम्समवेत (√समव-इ + क्त, ६.३)
अपिअपि (अव्ययः)
कश्चिद्कश्चित् (१.१)
गयांगया (२.१)
व्रजेत्व्रजेत् (√व्रज् विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ष्ट व्या वः पु त्रा
गु न्तो हुश्रु ताः
ते षां वै वे ता ना
पि श्चिद्ग यांव्र जेत्