२.९९.८

सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः ।
शीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ॥

अन्वयः

अहम् I, लक्ष्मणान्वितः accompanied by Lakshmana, अप्रतिद्वन्द्वः unrivalled, पितुः father's, सत्यवादे truthfulness of words, स्थितः bent upon, सीतया च with Sita, निर्जनम् lonely, इदं वनम् this forest, प्राप्तः I have come.

Summary

I have come to this lonely forest accompanied by Lakshmana and Sita, bent upon upholding the truth of our unrivalled father's words.

पदच्छेदः

सोतद् (१.१)
ऽहंमद् (१.१)
वनम्वन (२.१)
इदंइदम् (२.१)
प्राप्तोप्राप्त (√प्र-आप् + क्त, १.१)
निर्जनंनिर्जन (२.१)
लक्ष्मणान्वितःलक्ष्मण–अन्वित (१.१)
सीतयासीता (३.१)
चाप्रतिद्वन्द्वः (अव्ययः)–अप्रतिद्वन्द्व (१.१)
सत्यवादेसत्यवाद (७.१)
स्थितःस्थित (√स्था + क्त, १.१)
पितुःपितृ (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सो ऽहंमि दं प्रा प्तो
निर्ज नंक्ष्म णान्वि तः
शी या चाप्र ति द्व न्द्वः
त्य वा देस्थि तःपि तुः