३.१.१८

इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव ।
राजा तस्माद्वनान्भोगान्भुङ्क्ते लोकनमस्कृतः ॥

अन्वयः

राघव O Rama, इन्द्रस्य Indra's, इह here, चतुर्भागः fourth part, प्रजाः people, रक्षति protects, तस्मात् therefore, राजा king, नमस्कृतः obeyed, वरान् best, भोगान् pleasures, भुङक्ते enjoys.

Summary

O Rama, in this world a king is considered the fourth part of Indra as he protects the people. Therefore, he is respected and he enjoys the choicest pleasures of life.

पदच्छेदः

इन्द्रस्येवइन्द्र (६.१)–इव (अव्ययः)
चतुर्भागःचतुर्भाग (१.१)
प्रजाप्रजा (२.३)
रक्षतिरक्षति (√रक्ष् लट् प्र.पु. एक.)
राघवराघव (८.१)
राजाराजन् (१.१)
तस्माद्तस्मात् (अव्ययः)
वरान्वर (२.३)
भोगान्भोग (२.३)
भुङ्क्तेभुङ्क्ते (√भुज् लट् प्र.पु. एक.)
लोकनमस्कृतःलोक–नमस्कृत (√नमस्-कृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द्र स्यै तु र्भा गः
प्र जाक्षति रा
रा जा स्माद्व ना न्भो गा
न्भु ङ्क्ते लोस्कृ तः