३.१०.१४

ततः कर्तुं तपोविघ्नं सर्वैर्देवैर्नियोजिताः ।
प्रधानाप्सरसः पञ्चविद्युच्चलितवर्चसः ॥

अन्वयः

सर्वैः by all, देवैः by gods, तत्र there, तपोविघ्नम् to disturb the penance, कर्तुम् to do, विद्युच्चलितवर्चसः glittering like lightning, पञ्च five, प्रधानाप्सरसः important nymphs नियोजिताः engaged,

M N Dutt

Then with the view of disturbing his austerities, the deities ordered five principal Apsarās, possessed of the splendour of live lighting.

Summary

All the gods then engaged five of the important nymphs, glittering like lightning, to disturb the penance of the sage.

पदच्छेदः

ततःततस् (अव्ययः)
कर्तुंकर्तुम् (√कृ + तुमुन्)
तपोविघ्नंतपस्–विघ्न (२.१)
सर्वैर्सर्व (३.३)
देवैर्देव (३.३)
नियोजिताःनियोजित (√नि-योजय् + क्त, १.३)
प्रधानाप्सरसःप्रधान–अप्सरस् (१.३)
पञ्चविद्युच्चलितवर्चसःपञ्चन्–विद्युत्–चलित (√चल् + क्त)–वर्चस् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः र्तुं पो वि घ्नं
र्वै र्दे वैर्नि योजि ताः
प्र धा नाप्स सःञ्च
वि द्युच्चलिर्च सः