३.१०.३१

प्रसादात्तत्र भवतः सानुजः सह सीतया ।
अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् ॥

अन्वयः

भवतः your, प्रसादात् by grace, सानुजः with my brother, सह सीतया and along with Sita, मुनिम् sage, अगस्त्यम् Agastya, अभिवादयितुम् to offer our respectful salutations, तत्र there, अभिगच्छेयम् I wish to go.

Summary

By your grace, I wish to go there with Sita and my brother Lakshmana to offer our respectful salutations.

पदच्छेदः

प्रसादात्प्रसाद (५.१)
तत्रतत्र (अव्ययः)
भवतःभवत् (६.१)
सानुजः (अव्ययः)–अनुज (१.१)
सहसह (अव्ययः)
सीतयासीता (३.१)
अगस्त्यम्अगस्त्य (२.१)
अभिगच्छेयम्अभिगच्छेयम् (√अभि-गम् विधिलिङ् उ.पु. )
अभिवादयितुंअभिवादयितुम् (√अभि-वादय् + तुमुन्)
मुनिम्मुनि (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र सा दा त्तत्र तः
सानु जः सी या
स्त्यभि च्छे
भि वायि तुंमु निम्