३.१०.५६

ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् ।
वातापे निष्क्रमस्वेति स्वरेण महता वदन् ॥

अन्वयः

ततः then, तेषां विप्राणाम् when those brahmins, भुक्तवताम् finished eating, इल्वलः Ilvala, महता with a loud, स्वरेण voice, वदन् while shouting, वातापे O Vatapi, निष्क्रमस्व come out, इति thus, अब्रवीत् he spoke.

M N Dutt

Then when the Vipras had fed, Ilvala said'uttering a loud sound, O Vātāpi; come out.'

Summary

Then when the brahmins finished eating, Ilvala would call aloud, 'O Vatapi come out'.

पदच्छेदः

ततोततस् (अव्ययः)
भुक्तवतांभुक्तवत् (√भुज् + क्तवतु, ६.३)
तेषांतद् (६.३)
विप्राणाम्विप्र (६.३)
इल्वलोइल्वल (१.१)
ऽब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वातापेवातापि (८.१)
निष्क्रमस्वेतिनिष्क्रमस्व (√निः-क्रम् लोट् म.पु. )–इति (अव्ययः)
स्वरेणस्वर (३.१)
महतामहत् (३.१)
वदन्वदत् (√वद् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो भुक्त तां ते षां
वि प्रा णा मिल्व लोऽब्र वीत्
वा ता पे निष्क्र स्वेति
स्व रे ता दन्