३.१०.६६

एवं कथयमानस्य तस्य सौमित्रिणा सह ।
रामस्यास्तं गतः सूर्यः संध्याकालोऽभ्यवर्तत ॥

अन्वयः

तस्य रामस्य of Rama, सौमित्रिणा सह along with Lakshmana, एवम् in that way, कथयमानस्य as he was narrating, सूर्यः Sun, अस्तं गतः had set, सन्ध्याकालः evening time, अभ्यवर्तत had set in.

M N Dutt

As Rāma was thus conversing with Sumitra's son, the sun set and evening approached.

Summary

While Rama was thus narrating to Lakshmana (the story of Agastya), the Sun set and evening closed in.

पदच्छेदः

एवंएवम् (अव्ययः)
कथयमानस्यकथयमान (√कथय् + शानच्, ६.१)
तस्यतद् (६.१)
सौमित्रिणासौमित्रि (३.१)
सहसह (अव्ययः)
रामस्यास्तंराम (६.१)–अस्त (२.१)
गतःगत (√गम् + क्त, १.१)
सूर्यःसूर्य (१.१)
संध्याकालोसंध्या–काल (१.१)
ऽभ्यवर्ततअभ्यवर्तत (√अभि-वृत् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं मास्य
स्य सौ मित्रि णा
रा स्या स्तं तः सू र्यः
सं ध्या का लोऽभ्यर्त