३.१०.६९

तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले ।
भ्रातरं तमगस्त्यस्य आमन्त्रयत राघवः ॥

अन्वयः

तस्यां रात्य्राम् when that night, व्यतीतायाम् was spent, सूर्यमण्डले when the Sun's orb, विमले was bright, राघवः Rama, अगस्त्यस्य Agasthya's, भ्रातरम् brother, तम् him, आमन्त्रयत bid him farewell.

M N Dutt

When the night had passed away, and solar disc arose, Rāghava greeted Agastya's brother.

Summary

When the night passed and the Sun became bright, Rama took leave of the brother of Agastya.

पदच्छेदः

तस्यांतद् (७.१)
रात्र्यांरात्रि (७.१)
व्यतीतायांव्यतीत (√व्यति-इ + क्त, ७.१)
विमलेविमल (७.१)
सूर्यमण्डलेसूर्य–मण्डल (७.१)
भ्रातरंभ्रातृ (२.१)
तम्तद् (२.१)
अगस्त्यस्यअगस्त्य (६.१)
आमन्त्रयतआमन्त्रयत (√आ-मन्त्रय् लङ् प्र.पु. एक.)
राघवःराघव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यां रा त्र्यांव्य ती ता यां
वि ले सूर्यण्ड ले
भ्रा रं स्त्यस्य
न्त्र रा वः