३.१०.९

इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने ।
कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ॥

अन्वयः

महामुने O great sage, अत्यद्भुतम् very wonderful, इदम् this, श्रुत्वा after hearing, सर्वेषाम् for all, नः us, महत् great, कौतूहलम् curiosity, जातम् created, इदम् this, किम् what is this, साधु well, कथ्यताम् please tell us, प्रभो O lord, विप्र O sage, नातिगुह्यमपि यदि चेत् if there is no great secret about this, वक्तव्यम् let it be revealed.

M N Dutt

Hearing this mighty wonder, we have been worked up with intense curiosity. Do you tell us what this is.

Summary

O great sage, this very wonderful sound, has whetted our great curiosity. If there is no top secret about this, do disclose it.

पदच्छेदः

इदम्इदम् (२.१)
अत्यद्भुतंअत्यद्भुत (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
सर्वेषांसर्व (६.३)
नोमद् (६.३)
महामुनेमहत्–मुनि (८.१)
कौतूहलंकौतूहल (१.१)
महज्महत् (१.१)
जातंजात (√जन् + क्त, १.१)
किम् (१.१)
इदंइदम् (१.१)
साधुसाधु (२.१)
कथ्यताम्कथ्यताम् (√कथय् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यद्भु तं श्रु त्वा
र्वे षां नो हामु ने
कौ तू लं ज्जा तं
किमि दं साधुथ्य ताम्