३.१०.९१

यक्षत्वममरत्वं च राज्यानि विविधानि च ।
अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः ॥

अन्वयः

शुभैः by benevolent ones, भूतैः by beings, अत्र here, आराधिताः those who are worshipped, देवाः gods, यक्षत्वम् status of demigods, अमरत्वं च status of gods, विविधानि several kinds of, राज्यानि च kingdoms also, प्रयच्छन्ति will endow.

M N Dutt

And adored by auspicious individuals, the deities here confer on them the states of Yakşas and celestials, and divers kingdoms.

Summary

Worshipped by benevolent beings, the gods here bestow on them the status of demigods or of the immortals or several kinds of kingdoms.

पदच्छेदः

यक्षत्वम्यक्ष–त्व (२.१)
अमरत्वंअमर–त्व (२.१)
(अव्ययः)
राज्यानिराज्य (२.३)
विविधानिविविध (२.३)
(अव्ययः)
अत्रअत्र (अव्ययः)
देवाःदेव (१.३)
प्रयच्छन्तिप्रयच्छन्ति (√प्र-यम् लट् प्र.पु. बहु.)
भूतैर्भूत (३.३)
आराधिताःआराधित (√आ-राधय् + क्त, १.३)
शुभैःशुभ (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षत्व त्वं
रा ज्यानिविवि धानि
त्र दे वाःप्र च्छन्ति
भू तै रा राधि ताःशु भैः