३.११.३०

अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः ।
दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ ॥

पदच्छेदः

अमोघःअमोघ (१.१)
सूर्यसंकाशोसूर्य–संकाश (१.१)
ब्रह्मदत्तःब्रह्मन्–दत्त (√दा + क्त, १.१)
शरोत्तमःशर–उत्तम (१.१)
दत्तोदत्त (√दा + क्त, १.१)
मममद् (६.१)
महेन्द्रेणमहत्–इन्द्र (३.१)
तूणीतूणि (१.२)
चाक्षयसायकौ (अव्ययः)–अक्षय–सायक (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मो घः सूर्य सं का शो
ब्रह्म त्तः रोत्त मः
त्तो हे न्द्रे
तू णी चाक्ष सा कौ