३.११.३३

तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद ।
जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥

अन्वयः

मानद O Rama, bestower of honour, तत् that, धनुः bow, तौ both, तूणीरौ quivers, शरम् arrow, खङ्गं च sword, वज्रधरः Indra the wielder of the thunderbolt, वज्रं यथा as his thunderbolt, जयाय to win, प्रतिगृह्णीष्व you may please accept.

Summary

O bestower of honour, receive this bow, the two quivers, the sword and the arrow for your victory just like Indra accepts the thunderbolt.

पदच्छेदः

तद्तद् (२.१)
धनुस्धनुस् (२.१)
तौतद् (२.२)
(अव्ययः)
तूणीरौतूणीर (२.२)
शरंशर (२.१)
खड्गंखड्ग (२.१)
(अव्ययः)
मानदमानद (८.१)
जयायजय (४.१)
प्रतिगृह्णीष्वप्रतिगृह्णीष्व (√प्रति-ग्रह् लोट् म.पु. )
वज्रंवज्र (२.१)
वज्रधरोवज्रधर (१.१)
यथायथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्ध नु स्तौ तू णी रौ
रं ड्गं मा
याप्रति गृ ह्णीष्व
ज्रंज्र रो था