३.११.९

ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ।
वैदेहीं च महाभागामिदं वचनमब्रवीत् ॥

अन्वयः

ततः then, शिष्यात् from the disciple, सलक्ष्मणम् along with Lakshmana, रामम् Rama, प्राप्तम् arrived, उपश्रुत्य having heard, महाभागाम् great, वैदेहीं Sita, daughter of the king of Videha, च and, इदं वचनम् these words, अब्रवीत् said.

M N Dutt

Hearing from his disciple that Rāma had come along with Lakşmaņa and the highly virtuous Vaidehi, Agastya said,

Summary

Having heard from the disciple about the arrival of Rama, Lakshmana and great daughter of the king of Videha the sage said :

पदच्छेदः

ततःततस् (अव्ययः)
शिष्याद्शिष्य (५.१)
उपश्रुत्यउपश्रुत्य (√उप-श्रु + ल्यप्)
प्राप्तंप्राप्त (√प्र-आप् + क्त, २.१)
रामंराम (२.१)
सलक्ष्मणम् (अव्ययः)–लक्ष्मण (२.१)
वैदेहींवैदेही (२.१)
(अव्ययः)
महाभागाम्महाभाग (२.१)
इदंइदम् (२.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः शि ष्यादु श्रुत्य
प्रा प्तं रा मंक्ष्म णम्
वै दे हीं हा भा गा
मि दंब्र वीत्