३.१२.१

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण ।
अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥

अन्वयः

राम O Rama, प्रीतः pleased, अस्मि I am, ते भद्रम् wish you well, लक्ष्मण Lakshmana, परितुष्टः satisfied, अस्मि I am, यत् to me, सीतया सह with Sita, माम् to me, अभिवादयितुम् to pay reverence, प्राप्तौ have come , स्थः you both are.

M N Dutt

'O Rāma, I am pleased with you; good betide you! And, O Laksmana, I am gratified by you. You are in trouble in consequence of the great fatigue that you have undergone on the way. And Janaka's daughter, the noble Maithili, is evidently cager (for rest).

Summary

O Rama ,I am pleased. I wish you well. I am glad that both of you have come here with Sita to pay respect to me.

पदच्छेदः

रामराम (८.१)
प्रीतोप्रीत (√प्री + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
भद्रंभद्र (१.१)
तेत्वद् (४.१)
परितुष्टोपरितुष्ट (√परि-तुष् + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
लक्ष्मणलक्ष्मण (८.१)
अभिवादयितुंअभिवादयितुम् (√अभि-वादय् + तुमुन्)
यन्यत् (अव्ययः)
मांमद् (२.१)
प्राप्तौप्राप्त (√प्र-आप् + क्त, १.२)
स्थःस्थः (√अस् लट् म.पु. एक.)
सहसह (अव्ययः)
सीतयासीता (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा प्री तोऽस्मि द्रं ते
रि तु ष्टोऽस्मिक्ष्म
भि वायि तुं न्मां
प्रा प्तौ स्थः सी या