३.१२.१८

स देशः श्लाघनीयश्च नातिदूरे च राघव ।
गोदावर्याः समीपे च मैथिली तत्र रंस्यते ॥

M N Dutt

And that tract is worthy of all praise, and, O Rāghava, it is not distant from here. It is in the vicinity of the Godāvarī. Mithilā's daughter shall live there agreeably.

पदच्छेदः

तद् (१.१)
देशःदेश (१.१)
श्लाघनीयश्श्लाघनीय (√श्लाघ् + अनीयर्, १.१)
(अव्ययः)
नातिदूरे (अव्ययः)–अति (अव्ययः)–दूर (७.१)
(अव्ययः)
राघवराघव (८.१)
गोदावर्याःगोदावरी (६.१)
समीपेसमीप (७.१)
(अव्ययः)
मैथिलीमैथिली (१.१)
तत्रतत्र (अव्ययः)
रंस्यतेरंस्यते (√रम् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दे शः श्ला नीश्च
नाति दू रे रा
गो दा र्याः मी पे
मैथि लीत्र रंस्य ते