३.१२.४

यथैषा रमते राम इह सीता तथा कुरु ।
दुष्करं कृतवत्येषा वने त्वामनुगच्छती ॥

अन्वयः

राम O Rama, इह here, यथा in whatever manner, रमते she feels like enjoying, तथा like that, कुरु do, एषा this lady, वने in this forest, त्वाम् you, अनुगच्छती came following, दुष्करम् difficult, कृतवती she has done.

M N Dutt

Do you, O Rāma, conduct yourself so, that Sītā may find a pleasant time of it. By fcllowing you to the forest, it is a hard task that she is performing.

Summary

O Rama, help Sita enjoy herself in whatever manner she likes. By following you into the forest, she has accomplished the most difficult task৷৷

पदच्छेदः

यथैषायथा (अव्ययः)–एतद् (१.१)
रमतेरमते (√रम् लट् प्र.पु. एक.)
रामराम (१.१)
इहइह (अव्ययः)
सीतासीता (१.१)
तथातथा (अव्ययः)
कुरुकुरु (√कृ लोट् म.पु. )
दुष्करंदुष्कर (२.१)
कृतवत्य्कृतवत् (√कृ + क्तवतु, १.१)
एषाएतद् (१.१)
वनेवन (७.१)
त्वाम्त्वद् (२.१)
अनुगच्छतीअनुगच्छत् (√अनु-गम् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थै षा ते रा
सी ता थाकुरु
दुष्क रंकृ त्ये षा
ने त्वानुच्छ ती