३.१३.१८

ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः ।
उलूकाञ्जनयत्क्रौञ्ची भासी भासान्व्यजायत ॥

पदच्छेदः

ताम्रापिताम्रा (१.१)–अपि (अव्ययः)
सुषुवेसुषुवे (√सू लिट् प्र.पु. एक.)
कन्याःकन्या (२.३)
पञ्चैतापञ्चन् (२.३)–एतद् (२.३)
लोकविश्रुताःलोक–विश्रुत (√वि-श्रु + क्त, २.३)
उलूकाञ्उलूक (२.३)
जनयत्जनयत् (√जनय् लङ् प्र.पु. एक.)
क्रौञ्चीक्रौञ्ची (१.१)
भासीभासी (१.१)
भासान्भास (२.३)
व्यजायतव्यजायत (√वि-जन् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता म्रापिसुषु वे न्याः
ञ्चै ता लो विश्रु ताः
लू काञ्ज त्क्रौ ञ्ची
भा सी भा सान्व्य जा