३.१३.२६

मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ ।
दिशागजं तु श्वेताक्षं श्वेता व्यजनयत्सुतम् ॥

पदच्छेदः

मातंग्यास्मातंगी (६.१)
त्व्तु (अव्ययः)
अथअथ (अव्ययः)
मातंगामातंग (१.३)
अपत्यंअपत्य (१.१)
मनुजर्षभमनुज–ऋषभ (८.१)
दिशागजंदिशागज (२.१)
तुतु (अव्ययः)
श्वेताक्षंश्वेत–अक्ष (२.१)
श्वेताश्वेता (१.१)
व्यजनयत्व्यजनयत् (√वि-जनय् लङ् प्र.पु. एक.)
सुतम्सुत (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा ङ्ग्यास्त्व मा ङ्गा
त्यंनुर्ष
दि शा जं तु श्वे ता क्षं
श्वे ताव्यत्सु तम्