३.१४.२२

स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदा ।
स्नात्वा पद्मानि चादाय सफलः पुनरागतः ॥

अन्वयः

तदा then, श्रीमान् handsome, लक्ष्मणः Lakshmana, सहसा immediately, गोदावरीं नदीम् (गत्वा) went to river Godavari, स्नात्वा after taking bath, पद्मानि lotuses, च and, आदाय collecting, सफलः completing the task, पुनः again, आगतः came.

M N Dutt

And then going to the river Godāvarī, the lovely Lakşmana, performing his bath, and securing lotuses and fruits, came back (to the asylum).

Summary

Lakshmana then went to river Godavari, had his bath, and returned with some lotuses.

पदच्छेदः

तद् (१.१)
गत्वागत्वा (√गम् + क्त्वा)
लक्ष्मणःलक्ष्मण (१.१)
श्रीमान्श्रीमत् (१.१)
नदींनदी (२.१)
गोदावरींगोदावरी (२.१)
तदातदा (अव्ययः)
स्नात्वास्नात्वा (√स्ना + क्त्वा)
पद्मानिपद्म (२.३)
चादाय (अव्ययः)–आदाय (√आ-दा + ल्यप्)
सफलः (अव्ययः)–फल (१.१)
पुनर्पुनर् (अव्ययः)
आगतःआगत (√आ-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वाक्ष्म णः श्री मा
न्न दीं गो दा रीं दा
स्ना त्वा द्मानि चा दा
लःपु रा तः