३.१४.२६

प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो ।
प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ॥

अन्वयः

प्रभो O master, त्वया by you, महत् great, कर्म task, कृतम् is accomplished, ते with you, प्रीतः pleased, अस्मि I am, यन्निमित्तम् for what you have done, ते to you, प्रदेयः that which has to be given, परिष्वङ्गः embrace, मया myself, कृतः gave.

M N Dutt

Pleased am I with you. You have done a great deed, my brother; for which I have granted you my embrace by way of reward.

Summary

O my master, you have done a great task for which I have given you what I could give at the moment a hug.

पदच्छेदः

प्रीतोप्रीत (√प्री + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
तेत्वद् (६.१)
महत्महत् (२.१)
कर्मकर्मन् (२.१)
त्वयात्वद् (३.१)
कृतम्कृत (√कृ + क्त, २.१)
इदंइदम् (२.१)
प्रभोप्रभु (८.१)
प्रदेयोप्रदेय (√प्र-दा + कृत्, १.१)
यन्निमित्तंयद्–निमित्त (२.१)
तेत्वद् (४.१)
परिष्वङ्गोपरिष्वङ्ग (१.१)
मयामद् (३.१)
कृतःकृत (√कृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्री तोऽस्मि ते त्कर्म
त्व याकृमि दंप्र भो
प्र दे योन्नि मि त्तं ते
रि ष्व ङ्गो याकृ तः