३.१५.१

वसतस्तस्य तु सुखं राघवस्य महात्मनः ।
शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते ॥

अन्वयः

महात्मनः great self, तस्य राघवस्य that Rama's, सुखम् comfort, वसतः while living, शरद्व्यपाये autumn over, इष्टः favourite season, हेमन्तऋतुः winter season, प्रवर्तत set in.

M N Dutt

As the high-souled Rāghava was dwelling there peacefully, after autumn had departed, the welcome winter commenced.

Summary

While the great self Rama lived happily there, autumn passed and dear winter set in.

पदच्छेदः

वसतस्वसत् (√वस् + शतृ, ६.१)
तस्यतद् (६.१)
तुतु (अव्ययः)
सुखंसुखम् (अव्ययः)
राघवस्यराघव (६.१)
महात्मनःमहात्मन् (६.१)
शरद्व्यपायेशरद्–व्यपाय (७.१)
हेमन्तहेमन्त (१.१)
ऋतुर्ऋतु (१.१)
इष्टःइष्ट (√इष् + क्त, १.१)
प्रवर्ततेप्रवर्तते (√प्र-वृत् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तस्यतुसु खं
रास्य हात्म नः
द्व्य पा ये हेन्त
तु रि ष्टःप्रर्त ते