३.१५.१८

मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः ।
दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते ॥

अन्वयः

हिमनीहारसंवृतैः covered with snow and dew, उपसर्पद्भि: lengthening, मयूखैः by rays, सूर्यः Sun, दूरम् yonder, अभ्युदितः risen up, शशाङ्कः Moon, इव like, लक्ष्यते appears.

M N Dutt

And the sun although high advanced. yet having its rays covered with thick mist, appear like the moon,

Summary

The Sun risen at the distant horizon looks like the Moon, his lengthening rays covered with snow and dew.

पदच्छेदः

मयूखैर्मयूख (३.३)
उपसर्पद्भिर्उपसर्पत् (√उप-सृप् + शतृ, ३.३)
हिमनीहारसंवृतैःहिम–नीहार–संवृत (√सम्-वृ + क्त, ३.३)
दूरम्दूरम् (अव्ययः)
अभ्युदितःअभ्युदित (√अभ्युत्-इ + क्त, १.१)
सूर्यःसूर्य (१.१)
शशाङ्कशशाङ्क (१.१)
इवइव (अव्ययः)
लक्ष्यतेलक्ष्यते (√लक्षय् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यू खैरु र्पद्भि
र्हि नी हा संवृ तैः
दूभ्युदि तः सू र्यः
शाङ्कक्ष्य ते