३.१६.१

कृताभिषेको रामस्तु सीता सौमित्रिरेव च ।
तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम् ॥

अन्वयः

कृताभिषेकः bath over, रामस्तु Rama too, सीता Sita, सौमित्रिरेव च and also Lakshmana, ततः then, तस्मात् therefrom, गोदावरीतीरात् from the bank of Godavari, स्वम् their, आश्रमम् hermitage, जग्मुः went.

M N Dutt

Having bathed, Rāma Sītā and Sumitrā's son went to their own asylum from the banks of the Godāvarī.

Summary

Ablution over, Rama, accompanied by Sita and Lakshmana, went back from the bank of the river Godabari to their hermitage.

पदच्छेदः

कृताभिषेकोकृत (√कृ + क्त)–अभिषेक (१.१)
रामस्राम (१.१)
तुतु (अव्ययः)
सीतासीता (१.१)
सौमित्रिर्सौमित्रि (१.१)
एवएव (अव्ययः)
(अव्ययः)
तस्माद्तद् (५.१)
गोदावरीतीरात्गोदावरी–तीर (५.१)
ततोततस् (अव्ययः)
जग्मुःजग्मुः (√गम् लिट् प्र.पु. बहु.)
स्वम्स्व (२.१)
आश्रमम्आश्रम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कृ ताभि षे को रास्तु
सी ता सौ मित्रि रे
स्मा द्गो दा री ती रा
त्त तो ग्मुःस्व माश्र मम्