३.१६.६

सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् ।
सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ॥

पदच्छेदः

सिंहोरस्कंसिंह–उरस्क (२.१)
महाबाहुंमहत्–बाहु (२.१)
पद्मपत्त्रनिभेक्षणम्पद्म–पत्त्र–निभ–ईक्षण (२.१)
सुकुमारंसुकुमार (२.१)
महासत्त्वंमहासत्त्व (२.१)
पार्थिवव्यञ्जनान्वितम्पार्थिव–व्यञ्जन–अन्वित (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सिं हो स्कं हा बा हुं
द्मत्रनि भेक्ष णम्
सुकु मा रं हा त्त्वं
पार्थि व्यञ्ज नान्वि तम्