३.१७.७

अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी ।
मया सह सुखं सर्वान्दण्डकान्विचरिष्यसि ॥

अन्वयः

ते to you, अस्य रूपस्य for your form, वरवर्णिनी a woman of fine complexion, अहम् I am, युक्ता most suitable, भार्या wife, मया सह with me, सुखम् happily, दण्डकान् to Dandaka forest, विचरिष्यसि you can wander about.

M N Dutt

I am fit to be your wife possessed of transcendental grace, having regard to this beauty of yours. And with me you will happily range these Dandakas.

Summary

With my fine complexion, I will be a suitable wife for you. You can happily wander about in Dandaka forest with me.

पदच्छेदः

अस्यइदम् (६.१)
रूपस्यरूप (६.१)
तेत्वद् (६.१)
युक्तायुक्त (१.१)
भार्याहंभार्या (१.१)–मद् (१.१)
वरवर्णिनीवरवर्णिनी (१.१)
मयामद् (३.१)
सहसह (अव्ययः)
सुखंसुखम् (अव्ययः)
सर्वान्सर्व (२.३)
दण्डकान्दण्डक (२.३)
विचरिष्यसिविचरिष्यसि (√वि-चर् लृट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य रूस्य ते यु क्ता
भा र्या हंर्णि नी
यासु खं र्वा
न्दण्ड कान्वि रिष्यसि