३.१८.१५

तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् ।
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥

अन्वयः

अहम् I, रणमूर्धनि on the battle front, अनृजुवृत्तायाः of that crooked woman, तस्याः च her, हतयोः slain, तयोश्च their, सफेनम् foamy, रुधिरम् blood, पातुम् to drink, इच्छामि I desire.

M N Dutt

Nor I wish in the midst of encounter to drink the frothy blood of that crooked one as well as those two slain (in battle).

Summary

I wish to drink the foamy blood of that crooked woman and of both the brothers slain on the battle front.

पदच्छेदः

तस्याश्तद् (६.१)
चानृजुवृत्तायास् (अव्ययः)–अनृजु–वृत्त (√वृत् + क्त, ६.१)
तयोश्तद् (६.२)
(अव्ययः)
हतयोर्हत (√हन् + क्त, ६.२)
अहम्मद् (१.१)
सफेनं (अव्ययः)–फेन (२.१)
पातुम्पातुम् (√पा + तुमुन्)
इच्छामिइच्छामि (√इष् लट् उ.पु. )
रुधिरंरुधिर (२.१)
रणमूर्धनिरण–मूर्धन् (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्या श्चानृजु वृ त्ता या
स्त योश्च यो हम्
फे नं पातु मि च्छामि
रुधि रं मूर्धनि