३.१८.१६

एष मे प्रथमः कामः कृतस्तात त्वया भवेत् ।
तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ॥

अन्वयः

तात O dear one, मे my, एषः this, प्रथमः first, कामः wish, त्वया by you, कृतः fulfilled, भवेत् can be, अहम् I, आहवे in a battle, तस्याः her, तयोश्च their, रुधिरम् blood, पिबेयम् be able to drink.

M N Dutt

Let this my prime wish be crowned there with fruition. her and their blood will I drink in dreadful conflict.

Summary

O dear this is my first wish and you must fulfil it. I will drink her blood and of the two brothers, in the battle.

पदच्छेदः

एषएतद् (१.१)
मेमद् (६.१)
प्रथमःप्रथम (१.१)
कामःकाम (१.१)
कृतस्कृत (√कृ + क्त, १.१)
ताततात (८.१)
त्वयात्वद् (३.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
तस्यास्तद् (६.१)
तयोश्तद् (६.२)
(अव्ययः)
रुधिरंरुधिर (२.१)
पिबेयम्पिबेयम् (√पा विधिलिङ् उ.पु. )
अहम्मद् (१.१)
आहवेआहव (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मेप्र मः का मः
कृ स्तात्व या वेत्
स्यास्त योश्चरुधि रं
पि बे मा वे