३.१८.१७

इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् ।
व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् ॥

अन्वयः

तस्याम् as she, इति in that way, ब्रुवाणायाम् while speaking, खरः Khara, क्रुद्धः angry, महाबलान् very strong ones, अन्तकोपमान् comparable to Yama (god of death), चतुर्दश राक्षसान् fourteen demons, व्यादिदेश ordered.

Summary

As she was speaking, the inflamed Khara ordered fourteen very strong demons, comparable to Yama, the god of death, to proceed.

पदच्छेदः

इतिइति (अव्ययः)
तस्यांतद् (७.१)
ब्रुवाणायांब्रुवाण (√ब्रू + शानच्, ७.१)
चतुर्दशचतुर्दशन् (२.१)
महाबलान्महत्–बल (२.३)
व्यादिदेशव्यादिदेश (√व्या-दिश् लिट् प्र.पु. एक.)
खरःखर (१.१)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
राक्षसान्राक्षस (२.३)
अन्तकोपमान्अन्तक–उपम (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ति स्यांब्रु वा णा यां
तुर्द हा लान्
व्यादि दे रः क्रु द्धो
राक्ष सान्त को मान्